SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 25 शतके उद्देशक:३ सूत्रम् 726 संस्थानावगाढः। // 1433 // पयरपरिमंडले य, तत्थणंजेसे पयरपरिमंडले से ज० वीसतिपदेसिए वीसइपएसोगाढे अणंतपदे० तहेव, तत्थणंजे से घणपरिमंडले से ज० चत्तालीसतिपदेसिए चत्तालीसप०गाढे प०, उ० अणंतपए० असंखेजप०गाढे पन्नत्ता ॥सूत्रम् 726 // वट्टे ण मित्यादि, अथ परिमण्डलं पूर्वमादावुक्तमिह तु कस्मात्तत्त्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते?, उच्यते, वृत्तादीनि चत्वार्यपि प्रत्येकं समसङ्खयविषमससङ्ख्यप्रदेशान्यतस्तत्साधर्मात्तेषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्पश्चाद्विचित्रत्वाद्वा सूत्रगतेरिति, घणवट्टे त्ति सर्वतः समं घनवृत्तं मोदकवत् पयरवट्टे त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं मण्डकवत्, ओयपएसिए त्ति विषमसङ्ख्यप्रदेशनिष्पन्नं जुम्मपएसिए त्ति समसङ्ख्यप्रदेशनिष्पन्नम्, तत्थ णं जे से ओयपएसिए पयरवट्टे से जहन्नेणं पंचपएसिए इत्यादि, इत्थं पञ्चप्रदेशावगाढं पञ्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमससङ्खयेयप्रदेशावगाढं लोकस्याप्यसङ्गयेयप्रदेशात्मकत्वात्, जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए इति, एतस्य स्थापना- जे से ओयपएसिए घणवट्टे से जहन्नेणं सत्तपएसिए सत्तपएसोगाढेत्ति, एतस्य स्थापना-अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, जे से जुम्मपएसिए से जहन्नेणं बत्तीसइपएसिए इत्यादि, एतस्य स्थापना- अस्य चोपरीटश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति // 18 // त्र्यम्रसूत्रे जे से ओयपएसिए से जहन्नेणं तिपएसिए त्ति, अस्य स्थापना-Aजे से जुम्मपएसिए से जहन्नेणं छप्पएसिए त्ति अस्य स्थापना- जे से ओयपएसिए से जहन्नेणं पणतीसपएसिए त्ति, अस्य स्थापनाअस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपरि षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशाइति / जे से जुम्मपएसिए // 1433 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy