________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1427 // द्रव्यग्रहे भंते रत्ति। केइ चउवीसदंडएणं एयाणि पदाणि भन्नति जस्स जं अत्थि॥ सूत्रम् 723 // 25-2 // 25 शतके जीवे ण मित्यादि, ठियाइन्ति स्थितानि-किं जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीन्यस्थितानि च तदनन्तरवर्तीनि, तानि उद्देशकः 2 सूत्रम् 723 पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये त्वाहुः- स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि // 9 // किं दव्वओ गेण्हंति किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रत:-क्षेत्रमाश्रित्य कति-8 स्थितादिः प्रदेशावगाढानीत्यर्थः // 10 // वैक्रियशरीराधिकारे नियम छद्दिसिं ति यदुक्तं तत्रायमभिप्रायः- वैक्रियशरीरी पञ्चेन्द्रिय एव प्रायो भवति सच त्रसनाड्या मध्य एव तत्र च षण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते नियम छद्दिसिं ति, यच्च वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियशरीरं भवति तदिह न विवक्षितमप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति // 11 // तैजससूत्रे ठयाई गेण्हइत्ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति नो अठियाई गिण्हइ त्ति न तदनन्तरवर्तीनि गृह्णाति, तस्याकर्षपरिणामाभावात्, अथवा स्थितानि स्थिराणि गृह्णाति, नो अस्थितानि अस्थिराणि तथाविधस्वभावत्वात् // 12 / / जहा भासापदे त्ति यथा प्रज्ञापनाया एकादशे पदे तथा वाच्यम्, तच्च तिपएसियाई गिण्हाति जाव अणंतपएसियाई गिण्हई त्यादि // 13 // श्रोत्रेन्द्रियसूत्रे जहा वेउब्वियसरीरं ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं षड्दिक्कं चैवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च सिय तिदिसि मित्यादि नास्ति व्याघाताभावादिति / फासिंदियत्ताए जहा ओरालियसरीरन्ति, अयमर्थः- स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरंस्थितास्थितानिषड्दिगागतप्रभृतानिचेति,भावः,मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छद्दिसिन्ति / मनोयोगतया तथा द्रव्याणि गृह्णाति यथा कार्मणम्, स्थितान्येव गृह्णातीति भावः, केवलं तत्र व्याघातेनेत्याधुक्तमिह तु