SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1420 // 25 शतके उद्देशकः१ सूत्रम् 717 योगाल्पबहुत्वं पज्जत्तगस्स उ० जोए असंखेज० 25 च०स्स पज्जत्त० उ० असंखे० 26 असन्निपं०पज्जत्त० उ० जोए असंखेज० 27 एवं सन्निपं०स्स पज्जत्तगस्स उ० जोए असंखेज्ज०२८॥ सूत्रम् 717 // कइविहे त्यादि, सुहुम त्ति सूक्ष्मनामकर्मोदयात् अपज्जत्तग त्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात्, एवमितरे तद्विपरीतत्वात्, बायर त्ति बादरनामकर्मोदयात्,एते च चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां // 2 // जघन्नुक्कोसगस्स जोगस्स त्ति जघन्यो निकृष्टः काश्चिव्यक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्ष उत्कृष्टः जघन्योत्कर्षः, तस्य योगस्य वीर्यान्तराय क्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्यैतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाच्चाष्टाविंशतिविधस्याल्पबहुत्वादि जीवस्थानकविशेषाद्भवति, तत्र सव्वत्थोवे इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वाच्छरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात्, तत्रापिजघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशात्स्तोकः सर्वस्तोको भवति जघन्यो योगः, सपुनर्वैग्रहिककार्मणऔदारिकपुद्गलग्रहणप्रथमसमयवर्ती , तदनन्तरं च समयवृद्धयाऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति, बायरस्से त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्ख्यातगुणाःअसङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टकायापेक्षया / पर्याप्तकानां द्वीन्द्रियाणां सजिनामसज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति सङ्ख्यातयोजनप्रमाणत्वात्तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात्तस्य च क्षयोपशमविशेषसामर्थ्याद्यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापना // 1420 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy