SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1411 // त्पादः ज्योतिष्कसम्बन्धीति, उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समब्भहियाइ न्ति त्रीण्यसङ्ख्यातायुःसत्कान्येकं च सातिरेकंड 24 शतके चन्द्रविमानज्योतिष्कसत्कमिति // 3 // तृतीयगमे ठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं ति यद्यप्यसङ्ख्यातवर्षायुषां उद्देशकः 23 सूत्रम् 714 सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमंवर्षलक्षाभ्यधिकमुक्तम्, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्प- ज्योतिष्कोत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिको सङ्ख्यातवर्षायुरौषिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्गयातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतरकालभुवो हस्त्यादय औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति // 5 // जहन्नेणं अट्ठभागपलिओवमट्ठिईएस्वित्याद्युक्तम् // 6 // ओगाहणा जहन्नेणं धणुहपुहुत्त न्ति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनोहस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यम्, उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाइ न्ति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तम्, यतो विमलवाहनोनवधनुःशतमानावगाहनस्तत्कालहस्त्यादयश्च तद्द्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणा भवन्तीति, जहन्नकालट्ठिइयस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग्भावितं चैतदिति, सप्तमादि // 1411 // गमेषूत्कृष्टव त्रिपल्योपमलक्षणा तिरश्चः स्थितिः, ज्योतिष्कस्य तु सप्तमे द्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्यः॥७॥ एते सत्तगम त्ति प्रथमास्त्रयः मध्यमत्रयस्थान एकः पश्चिमास्तु
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy