________________ श्रीभगवत्यहं श्रीअभय वृत्तियुतम् भाग-३ // 1407 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सताविताना सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति, व्यादिसागरोपममानत्वात्तस्या इति // 9 // आणय देवे ण मित्यादि // 10 // उक्कोसेणं छब्भवग्गहणाइ न्ति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाइ न्ति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात्, उक्कोसेणं सत्तावन्नं सागरोवमाइ न्ति आनत उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति ॥११॥ग्रैवेयकाधिकारे एगेभवधारणिज्जे सरीरेत्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, नोचेवणं वेउव्विए त्यादि, ग्रैवेयकदेवानामाद्याः पञ्च समुद्धाता लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यांनते समुद्धातं कृतवन्तः कुर्वन्ति करिष्यन्ति वा, प्रयोजनाभावादित्यर्थः, जहन्नेणं बावीस सागरोवमाइन्ति प्रथमग्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति उक्कोसेणं एक्कतीसं ति नवमग्रैवेयक उत्कर्षत एकत्रिंशत्तानीति, उक्कोसेणं तेणउई सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइन्ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोट्योभवन्तीति॥ 14 // सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयंन / भवति, उत्कृष्टस्थितेरभावाच्चान्तिममिति // 17 // // 712 // चतुर्विंशतितमशते एकविंशतितमः // 24-21 // // 1407 //