________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1406 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः न्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूतैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणांजघन्यस्थितिमाश्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, तथाहि, कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहुत्तमब्भहियाइ मित्यादि॥ शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति // 2 // अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह जइ तिरिक्खेत्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि // 3 / / एतदेवाह एवं जच्चेवे त्यादि, विशेष पुनराह नवरं तईए इत्यादि तत्र तृतीय औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु य उत्पद्यन्ते त उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमूर्छिमसङ्ग्रहादसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति / जाहे अप्पणे त्यादि, अयमर्थः- मध्यमगमानांप्रथमगम औषिकेषूत्पद्यमानतायामित्यर्थः, अध्यवसानानि प्रशस्तानि, उत्कृष्टस्थितिकत्वेनोत्पत्तावप्रशस्तानिचजघन्यस्थितिकत्वेनोत्पत्तौ, बीयगमए त्ति जघन्यस्थितिकस्य जघन्यस्थितीषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरित्येवं तृतीयोऽपि वाच्यः॥ 5 // अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह एवं आउक्काइयाणवी त्यादि॥६॥ देवाधिकारे एवं जाव ईसाणो देवो त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह एयाणि चेव नाणत्ताणि त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयति सणंकुमारे त्यादि, एसा उक्कोसा ठिई भणियव्वत्ति यदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवति साचोत्कृष्ट-2 संवेधविवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादि सागरोपममाना भवति // 1406 //