SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1401 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः इत्युक्तम्॥४०॥ जहा सन्निपंचिदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह / नवरं परिमाण मित्यादि तत्र परिमाणद्वार उत्कर्षतोऽसङ्खयेयास्त उत्पद्यन्त इत्युक्तमिह तु सज्ञिमनुष्याणां सङ्खयेयत्वेन सङ्खयेया उत्पद्यन्त इति वाच्यम्, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहावगन्तव्यानि, तानि चैवं-तेषांषट् संहननानि जघन्योत्कर्षाभ्यामङ्गलासङ्खयेयभागमात्राऽवगाहना, षट् संस्थानानि, तिम्रो लेश्या, मिथ्या दृष्टिः द्वे अज्ञाने, कायरूपोयोगो, द्वौ उपयोगी, चतम्रःसज्ञाः,चत्वारः कषायाः, पञ्चेन्द्रियाणि, त्रयः समुद्धाताः, द्वेवेदने, त्रयो वेदा, जघन्योत्कर्षाभ्यामन्तर्मुहूर्त्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुःसमानोऽनुबन्धः, कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु सज्ञिमनुष्यपञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति॥४१॥ अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह जइ देवेही त्यादि, असुरकुमाराणं लद्धी ति असुरकुमाराणां 'लब्धिः' परिमाणादिका एवं जाव ईसाणदेवस्स त्ति यथा पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा, एवं तस्य पञ्चेन्द्रियतिर्यक्षु सावाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तम्, असुरकुमाराणां चैवं लब्धिःएकाद्यसङ्खयेयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षुसमयेनोत्पादः, तथा संहननाभावः, जघन्यतोऽङ्गलासङ्खयेयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहनेतरा तुजघन्यतोऽङ्गलसङ्खयेयभागमाना उत्कर्षतस्तुयोजनलक्षमाना, संस्थानं समचतुरस्रमुत्तरवैक्रियापेक्षया तु नानाविधम्, चतस्रोलेश्याः, त्रिविधा दृष्टिः, त्रीणि ज्ञानान्यवश्यमज्ञानानि च भजनया, योगादीनि पञ्च पदानि प्रतीतानि समुद्धाता आद्याः, पञ्च वेदना, द्विविधा वेदो नपुंसकवर्जः, स्थितिर्दश वर्षसहस्राणि जघन्या, इतरा तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं संवेधं तु सामान्यत आह भवादेसेणं सव्वत्थे त्यादि।। 47 // नागकुमारादिवक्तव्यता // 1401 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy