________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1400 // उद्देशकः 17-1819-20 सूत्रम् 708-711 स्थितिकेष्वित्यत्र चान्तर्मुहूतैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीभिश्च संवेध इति, 24 शतके नवमगमे नवरं परिमाण मित्यादि, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति॥ 25-29 / / अथ मनुष्येभ्यस्तमुत्पादयन्नाह जइ मणुस्सेहिंतो इत्यादि, लद्धी से तिसुवि गमएसु त्ति लब्धिः परिमाणादिका 'सेल तस्यासज्ञिमनुष्यस्य त्रिष्वपिगमेष्वाद्येषु यतो नवानांगमानांमध्य आद्या एवेह त्रयोगमाः संभवन्ति, जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, एत्थ चेव त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञिपञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रिय विकलोत्पादः तिर्यगुत्पादाधिकारे।। ३४॥नो असंखेज्जवासाउएहितो त्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति // 35 // लद्धी से इत्यादि, लब्धिः परिमाणादिप्राप्तिः 'से' तस्य सज्ञिमनुष्यस्य यथैतस्यैव सजिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं- परिमाणतो जघन्येनैको द्वौ वा, उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् सजिमनुष्याणाम्, तथा षड्डिधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः षड्विधसंस्थानिनः षड्लेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुःसज्ञाश्चतुष्कषायाः पञ्चेन्द्रियाः षट्समुद्धाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्मुहर्त्तस्थितय उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते 1 // 38 // द्वितीयगमे सच्चेव वत्तव्वय त्ति प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोटयश्चतुरन्त- // 1400 // मुहर्त्ताधिकाः, तृतीयेऽप्येवं नवरं ओगाहणा जहन्नेणं अंगुलपुहुत्तं त्ति, अनेनेदमवसितं- अङ्गलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यसूत्पद्यते, तथामासपुहुत्तं ति अनेनापि मासपृथक्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यसूत्पद्यत