SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 24 शतके उद्देशकः 17-18|19-20 सूत्रम् 708-711 विकलोत्पादः // 1398 // तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविंशतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जात एवं वारत्रये षट्पटिः सागरोपमाणि पूर्वकोटीत्रयं चस्यात्, यदिचोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुर्नारको भूत्वा पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात् ततश्चषट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य चस्यादिति // 8 // उत्पादितो नारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह जइ तिरिक्खे त्यादि,जच्चेव अप्पणो सट्ठाणे वत्तव्वय त्ति यैवात्मनः पृथिवीकायिकस्य, स्वस्थानेपृथिवीकायिकलक्षण उत्पद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसङ्खयेया उत्पद्यन्त इत्युक्तमिह त्वेकादिरिति, एतदेवाह नवर मित्यादि / तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषुत्वष्टौ भवग्रहणानीह पुनरष्टावेव नवस्वपीति / तथा कालादेसेणं उभयओ ठिईए करेज्जत्ति कालादेशेन संवेधं पृथिवीकायिकस्य सज्ञिपञ्चेन्द्रियतिरश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमे गमे कालादेसेणं जहन्नेणं दोअंतोमुहुत्ताइंति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूह्यः संवेध इति // 11 // सव्वत्थ अप्पणो लद्धी भाणियव्व त्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उद्वृत्तानां पञ्चेन्द्रियतिर्यसूत्पादे 'अप्पणो'त्ति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अथानन्तरोक्तमेवार्थं स्फुटतरमाह- जहेव पुढविकाइएसु उववजमाणाण मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवाप्कायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानांसा वाच्येति ॥१२॥असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे उक्कोसेणं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy