________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1385 // 24 शतके उद्देशकः 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः उक्तस्तथैवेह वाच्यः, सज्ञिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाणत्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, मज्झिल्ले त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता साच तत्सूत्रादेवेहावसेया, पच्छिल्ले त्यादि, औघिकगमेषु ह्यङ्गलासङ्खयेयभागरूपाऽप्यवगाहनाअन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्याऽत एवाह नवरं ओगाहणे त्यादि।। 40 / / अथ देवेभ्यस्तमुत्पादयन्नाह जई त्यादि, छण्हं संघयणाणं असंघयणि त्ति, इह यावत्करणादिदं दृश्यं 'णेवट्ठी णेव छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुन्ना मणामा ते तेसिं सरीरसंघायत्ताए'त्ति, 'तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं'ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्र्यादङ्गलासङ्खयेयभागमात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गलस्य सङ्खयेयभागमाना भवति आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया छ इति, तत्थ णं जे ते उत्तरवेउब्विया ते णाणासंठिय त्ति इच्छावशेन संस्थाननिष्पादनादिति, तिन्नि अन्नाणा भयणाए त्ति येऽसुरकुमारा असज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गस्याभावाच्छेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, जहन्नेणं दसवाससहस्साई अंतोमुत्तमब्भहियाई ति तत्र दशवर्षसहस्राण्यसुरेषु अन्तर्मुहूर्तं पृथिवीकायिकेष्विति, इत्थमेव उक्कोसेणं साइरेगं सागरोवममित्याद्यपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्वृत्तस्यासुरकुमारेषुत्पादाभावादिति, मज्झिल्लएसु पच्छिल्लएस्वित्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थितिरन्त्यगमेषु च साधिकं सागरोपममिति // 45-47 / ज्योतिष्कदण्डके तिन्नि नाणा तिन्नि अन्नाणा नियम ति इहासज्ञी नोत्पद्यते सज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेस्त्रीणि ज्ञानानिमत्यादीनीतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्तीति, अट्ठभागपलिओवमं 1385 //