________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1380 // शीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषत्वाह नवर मित्यादि, इह सप्तनानात्वानि शरीरावगाहना 24 शतके यथा पृथिवीकायिकानामङ्गलासङ्खयेयभागमानमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनामानाऽप्युक्तेति?, तथा नो सम्मदिट्ठी उद्देशक: 12 सूत्रम् 702 जघन्यस्थितिकतया सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् / पञ्चेन्द्रिय२, तथा द्वे अज्ञाने प्राक्च ज्ञाने अप्युक्ते 3, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक् चासावप्युक्तः तिर्यगन्तेभ्यः पृथ्व्याउत्पादः 4, तथा स्थितिरिहान्तर्मुहूर्तमेव प्राक् च संवत्सरद्वादशकमपि५, तथाऽध्यवसानानीहाप्रशस्तान्येव प्राक् चोभयरूपाणि 6, सप्तमं नानात्वमनुबन्ध इति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्गयेयभवलक्षणः कालादेशेन च सङ्खयेयकाललक्षणः 7, तृतीये तु विशेषमाह तइए गमए इत्यादि, अन्त्यगमत्रये कालादेसेणं उवजुज्जिऊण भाणियव्वं ति यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वषैरधिकानि द्वितीये त्वष्टचत्वारिंशद्वर्षाण्यन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते / / 21-25 // अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह जइ तेइंदी त्यादि, छन्नउयराइंदियसयअब्भहियाई ति इह तृतीयगमेऽष्टौ भवास्तत्र च चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, मज्झिमा तिन्नि गमा तहेव त्ति यथा मध्यमा द्वीन्द्रियगमाः,संवेहो उवउज्जिऊण भाणियव्वो त्ति सच पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालाादेशेन तु पश्चिमगमत्रयस्य प्रथमगमे तृतीयगमे चोत्कर्षतोAष्टाशीतिवर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तुषण्णवत्युत्तरं दिनशतमन्तर्मुहूर्तचतुष्टयाभ्यधिकमिति॥ // 1380 // 24 // अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह जई त्यादि, नवरं एएसु चेव ठाणेसु त्ति वक्ष्यमाणेष्ववगाहनादिषु नानात्वानिद्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव दर्शयति सरीरे त्यादि, सेसं तहेव त्ति