SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ | 24 शतके उद्देशकः 12 सूत्रम् 701 पृथ्व्या उत्पादः // 1375 // श्रीभगवत्यङ्गचतुथपन्धमला चतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्खयेयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् / तइयगमए कालाएसेणं जहन्नेणं श्रीअभय बावीसंवाससहस्साइन्ति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, अंतोमुहुत्तमब्भहियाई ति अप्कायिकस्य वृत्तियुतम् भाग-३ तत्रोत्पित्सोरौघिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं त्ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषांच चतुर्णां भवानां भावात् तत्रोत्पिसोश्चाप्कायिकस्यौघिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थियतश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेर्वर्षसहस्राणांसप्तानांच प्रत्येकं चतुर्गुणितत्वे 88000 / 28000 / मीलने च षोडशसहस्राधिकं लक्षं भवति 116000, छट्टे गमए इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् 88000 अत एव सप्तमादिगमसंवेधा अप्यूह्याः, नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राण्यप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमीलनादिति // 15 // अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह जई त्यादि, तिन्नि लेसाओ त्ति अप्कायिकेषु देवोत्पत्तेस्तेजोलेश्यासद्भावाच्चतम्रस्ता उक्ता इह तु तदभावात्तिस्र एवेति, ठिई जाणियव्व ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहर्त्तमितरा तुत्रीण्यहोरात्राणीति / तईयगमे इत्यादि,तृतीयगम औघिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषूत्पद्यत इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुषु पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुर्वैव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, एवं संवेहो उवजुंजिऊण भाणियव्वोत्ति, स चैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यम्, शेषगमेषु तूत्कृष्टतोऽसङ्खयेया भवाः कालोऽप्यसङ्खयेय एवेति // 16 // अथ वायुकायिकेभ्यः पृथिवीकायिक // 1375 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy