________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1374 // तत्र च जहा वक्तीए त्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति जाव। 24 शतके पंचिंति जोणिएहितो उव०?, गोयमा! एगिदियति जोणिएहितो जाव पंचिंति जोणिएहितोवि उव.' इत्यादि // 2 // उद्देशक: 12 सूत्रम् 701 तृतीये गमे नवरं जहन्नेणं एक्को वे त्यादि प्राक्तनगमयोरुत्पित्सुबहुत्वेनासङ्खयेया एवोत्पद्यन्त इत्युक्तम्, इह तूत्कृष्टस्थितय पृथ्व्या उत्पादः एकादयोऽसङ्ख्येयान्ता उत्पद्यन्त उत्कृष्टस्थितिषुत्पित्सुनामल्पत्वेनैकादीनामप्युत्पादसम्भवात्, उक्कोसेणं अट्ठ भवग्गहणाइन्ति, इहेदमवगन्तव्यं- यत्र संवेधे पक्षद्वयस्य मध्य एकत्रापि पक्ष उत्कृष्टा स्थितिर्भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसङ्खयेयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, छावत्तरिं वाससयसहस्सन्ति द्वाविंशतेवर्षसहस्राणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षं भवतीति 176000 // 7 // चतुर्थे गमे लेसाओ तिन्नि त्ति जघन्यस्थितिकेषु देवो नोत्पद्यत इति तेजोलेश्या तेषु नास्तीति / / 8 // षष्ठे गमे उक्कोसेणं अट्ठासीई वाससहस्साइ मित्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिर्वर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहूर्तानीति // 10 // नवमे गमे जहन्नेणं चोयालीसं ति द्वाविंशतेवर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति / / 13 // एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाप्कायिकेभ्य उत्पाद्यते जइ आउक्काइए त्यादि, चउक्कओ भेदो त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् संवेहो तइयछट्टे त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीत उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दय॑ते, तत्रच तृतीयादिषु सूत्रोक्तेषु पञ्चसुगमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमाष्टमेष्वेकपक्षेनवमे तुगम उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, सेसेसुचउसुगमएसुत्ति शेषेषु चतुर्युगमेषु-प्रथमद्वितीय-8 // 1374 //