________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1367 // 24 शतके उद्देशकः२ सूत्रम् 698 असुराणामुत्पादः स्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति 5, शेषगमास्तु स्वयमेवाभ्यूह्याः // 11 // एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते जइ संखेज्जे त्यादि, उक्कोसेणं सातिरेगसागरोवमद्वितीएसु त्ति यदुक्तं तलिनिकायमाश्रित्येति तिसुविगमएसुत्ति जघन्यकालस्थितिकसम्बन्धिषु औधिकादिषु चत्तारि लेसाओ त्ति रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिम्रस्ता उक्ता एषु पुनस्ताश्चतस्रः, असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रत्नप्रभापृथिवीगामिनांजघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानीह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, संवेहो सातिरेगेण सागरोवमेण कायव्वो त्ति रत्नप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो बलिपक्षापेक्षया तस्यैव भावादिति // 16-17 // अथ मनुष्येभ्योऽसुरानुत्पादयन्नाह जइ मणुस्सेहिंतो इत्यादि, उक्कोसेणं तिपलिओवमट्ठिइएसु त्ति देवकुर्वादिनरा ह्युत्कर्षतः स्वायुःसमानस्यैव देवायुषो बन्धका अतः तिपलिओवमट्ठिइएस्वित्युक्तम्, नवरं सरीरोगाहणे त्यादि तत्र प्रथम औधिक औषिकेषु द्वितीयस्त्वौघिको जघन्यस्थितिष्विति, तत्रौघिकोऽसङ्ख्यातवर्षायुर्नरोज सातिरेकपञ्चधनुःशतप्रमाणो भवति यथा सप्तमकुलकरप्राक्कालभावी मिथुनकनर उ० त्रिगव्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृष्टस्थितिषु पल्योपमत्रयायुष्केषूत्पद्यत उ० स्वायुः समानायुर्बन्धकत्वात्तस्येति // 19-20 // अथ सङ्ख्यातवर्षायुःसज्ञिमनुष्यमाश्रित्याह जइ संखेन्जे त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति // 23 // // 698 // चतुर्विंशतितमशते द्वितीयः॥ 24-2 // // 1367 //