________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 24 शतके उद्देशकः२ सूत्रम् 698 असुराणामुत्पादः भाग-३ // 1366 // त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात् / / 4-5 / / वयरोसहनारायसंघयणी ति, असङ्ख्यातवर्षायुषां यतस्तदेव भवतीति, जहन्नेणं धणुहपुहुत्तं ति इदं पक्षिणोऽधिकृत्योक्तम्, पक्षिणामुत्कृष्टतो धनुःपृथक्त्वप्रमाणशरीरत्वात्, आह च धणुयपुहत्तं पक्खिसु त्ति असङ्घयातवर्षायुषोऽपि ते स्युर्यदाह पलियअसंखेज्जपक्खीसु त्ति पल्योपमासयेयभागः पक्षिणामायुरिति, उक्कोसेणं छ गाउयाइं ति, इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तम्, नो नपुंसगवेयग त्ति असङ्ख्यातवर्षायुषो / हि नपुंसकवेदा न संभवन्त्येवेति, उक्कोसेणं छप्पलिओवमाइं ति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृतः पुनरप्यसङ्ख्यातवर्षायुष्केषूत्पद्यत इति // 6 // सो चेव अप्पणा जहन्नकालद्वितीओ इत्यादिश्चतुर्थोगमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुःसच पक्षिप्रभृतिकः प्रक्रान्तः उक्कोसेणं सातिरेगपुव्व-8 कोडिआउए सो त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेकं पूर्वकोटिरायुस्ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति // 9 // उक्कोसेणं सातिरेगं धणुसहस्सं ति यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते, तथाहि-इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः सच सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात्, एवंविधश्च हस्त्यादिः सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतान्युच्चैस्त्वं तत्प्राक्कालभाविनांचतानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्द्विगुणोच्छ्राया अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, सातिरेगाओ दो पुव्वकोडीओ इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुरभवसत्केति 4 // 10 // असुरकुमारट्ठिई संवेहं च जाणिज्ज त्ति तत्र जघन्याऽसुरकुमार 0 पक्षिषु धनुष्पृथक्त्वम्। // 1366 //