________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1356 // इत्याह जाव छठ्ठपुढवि त्ति, चउगुणा कायव्व त्ति उत्कृष्ट कायसंवेधे इति, वालुयप्पभाए अट्ठावीसं, 'तत्र सप्त सागरोपमाण्युत्कर्षतः 24 शतके स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशतिः स्यात्, एवमुत्तरत्रापीति, वालुयप्पभाए पंचविहसंघयणि त्ति आद्ययोरेव हि पृथिव्योः उद्देशकः१ सूत्रम् 695 सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी 4 पञ्चमी 3 षष्ठी 2 सप्तमीषु 1 एकैकं संहननंहीयत इति ॥अथ सप्तमपृथिवीमाश्रित्याह-पज्जत्ते शर्करप्रभात्यादि, इत्थिवेया न उववखंति त्ति षष्ठ यन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः जहन्नेणं तिन्नि भवग्गहणाई ति मत्स्यस्य दिघूत्पादः सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ उक्कोसेणं सत्त भवग्गहणाई ति मत्स्यो मृत्वा 1 सप्तम्यां गतः 2 पुनर्मत्सेयो जातः 3 पुनः सप्तम्यां गतः 4 पुनरपि मत्स्यः 5 पुनरपि तथैव गतः 6 पुनर्मत्स्यः 7 इत्येवमिति / कालोदेसेण मित्यादि, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहर्त्तद्वयं च प्रथमतृतीयमत्स्यभव सम्बन्धीति, छावहिँ सागरोवमाई ति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतस्रश्चपूर्वकोट्यश्चतुर्पुनारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते- सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात्, इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन् वारानुत्पादित एवं हि चतुर्थी , पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनर्वारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोट्यः पुनस्तिन एवेति १॥७६८०॥सो चेव जहन्नकालट्ठिइएसु इत्यादिस्तु द्वितीयो गमः 2 सो चेव उक्कोसकालट्ठिइसु उववज्जेज्जा इत्यादिस्तु तृतीयः, तत्र च उक्कोसेणं पंच भवग्गहणाई ति त्रीणि मत्स्यभवग्रहणानि द्वे च नारकभवग्रहणे अतएव वचनादुकृष्टस्थितिषु सप्तम्यां // 1356 // वारद्वयमेवोत्पद्यत इत्यवसीयते 3 सो चेव जहन्नकालट्ठिईओ इत्यादिस्तु चतुर्थः 4 तत्र च सच्चेव रयणपप्पभपुढविजहन्नकालट्ठिइवत्तव्वया भाणियव्व त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रत्नप्रभायांषट् संहननानि