________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1352 // 24 शतके उद्देशकः१ सूत्रम् 694 सज्ञयुत्पादः केवतिकालट्ठितीएसु उव०?, गोयमा! ज० सागरोवमट्टितीएसु, उ०वि साग० उव०, 73 ते णं भंते! जीवा सो चेव सत्तमगमओ निरवसेसो भा० जाव भवादेसोत्ति, काला० ज० सागरोवमं पुव्वकोडीए अब्भ०, उ० चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भ० ए० जाव क०९। एवं एते णव गमका उक्खेवनिक्खेवओ नवसुवि जहेव असन्नीणं // सूत्रम् 694 // जइ सन्नी त्यादि, तिन्नि नाणा तिन्नि अन्नाणा भयणाए त्ति तिरश्चां सज्ञिनां नरकगामिनां ज्ञानान्यज्ञानानि च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि वा स्युरित्यर्थः, नवरं पंच समुग्घाया आइल्लग त्ति असज्ञिनः पञ्चेन्द्रियतिरश्चस्त्रयः समुद्घाताः सज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति // 59 // जहन्नेणं दो भवग्गहणाई ति सज्ञिपञ्चेन्द्रियतिर्यङ् उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येष्वेवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयम्, अनेन चेदमुक्तं- सज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुनर्नारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुन रकस्ततः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इत्येवमष्टामेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औषिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः 1 पज्जत्ते त्यादिस्तु द्वितीयः 2 सो चेव उक्कोसकाले इत्यादिस्तु तृतीयः 3 जहन्नकालट्ठितीये त्यादिस्तु चतुर्थः 4 // 60-64 // तत्र च नवरं इमाई अट्ठ नाणत्ताई ति, तानि चैवं- तत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्तेह धनुःपृथक्त्वम्, तथा तत्र लेश्याः षडिह त्वाद्यास्तिस्रः, तथा तत्र दृष्टिस्त्रिधेह तु मिथ्यादृष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तुद्वे एवाज्ञाने, तथा तत्राद्याः पञ्च समुद्धाता इह तु त्रयः, आउअज्झवसाणा अणुबंधो य जहेव असन्नीणं ति जघन्यस्थितिकासझिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त्तम्, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्तमेवेति, अवसेस मित्यादि, अवशेषं यथा सज्ञिनः प्रथमगम औधिक इत्यर्थः, निगमनवाक्यं चेदं // 1352 //