________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1105 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः निश्राय निश्रां कृत्वेत्यर्थः पढमं अंतरावासं ति विभक्तिपरिणामादेव प्रथमेऽन्तरमवसरः, वर्षस्य वृष्टयंत्रासावन्तरवर्षः, अथवाऽन्तरेऽपिजिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोऽन्तरावासोवर्षाकालस्तत्र वासावासं ति वर्षासुवासश्चातुर्मासिकमवस्थानं वर्षावासः तमुपागत उपाश्रितः। दोच्चं वासंति द्वितीये वर्षे तंतुवायसाल त्ति कुविन्दशाला अंजलिमउलियहत्थे त्ति अञ्जलिना मुकुलितौ मुकुलाकारौ कृतौ हस्तौ येन स तथा, दव्वसुद्धेणं ति द्रव्यमोदनादिकम्, शुद्धमुद्रमादिदोषरहितं यत्र दाने तत्तथा तेन दायगसुद्धेणं तिदायकः शुद्धो यत्राशंसादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, तिविहेणं ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन त्रिकरणशुद्धेन मनोवाक्कायशुद्धेन वसुहारा वुटुं त्ति वसुधारा द्रव्यरूपा धारा वृष्टा अहो दाणं ति अहोशब्दो विस्मये कयत्थे णं ति कृतार्थः कृतस्वप्रयोजनः कयलक्खणे त्ति कृतफलवल्लक्षण इत्यर्थः कयाणं लोग त्ति कृतौ शुभफलौ, अवयवेसमुदायोपचारात्, लोका इहलोकपरलोकौ जम्मजीवियफले त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा तहारूवे साहु साहुरूवेत्ति तथारूपे' तथाविधेऽविज्ञातव्रतविशेष इत्यर्थः ‘साधौ' श्रमणे साधुरूपे'साध्वाकारे, धम्मंतेवासि त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यते- धर्मान्तेवासी, खज्जगविहीए. त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण सव्वकामगुणिएणं ति सर्वे कामगुणा अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन परमन्नेणं ति परमान्नेन क्षैरेय्या आयामेत्थ त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः।। 3 / / सब्भिंतरबाहिरिए त्ति सहाभ्यन्तरेण विभागेन बाह्येन च इयत्तत्तथा तत्र मग्गणगवेसणं ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं ततश्च समाहारद्वन्द्वः सुई व त्ति श्रूयत इति श्रुतिः शब्दः, तांचक्षुषा किल दृश्यमानोऽर्थःशब्देन निश्चीयत इति श्रुतिग्रहणं खुईवत्ति क्षवणं क्षुति: छीतकृतं ताम्, एषाऽप्यदृश्यमनुष्यादि // 1105 //