SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1334 // साली त्यादि सूत्रम्, 'साली'त्ति शाल्यादिधान्यविशेषविषयोद्देशकदशात्मकः प्रथमोवर्गःशालिरेवोच्यते, एवमन्यत्रापीति, 21 शतके उद्देशकदशकं चैवं मूले 1 कंदे 2 खंधे 3 तया य 4 साले 5 पवाल 6 पत्ते य 7 / पुप्फे 8 फल 1 बीए 10 विय एक्केको होइ उद्देसो॥१॥ वर्ग:१ उद्देशकः१ इति, कल त्ति कलायादिधान्यविषयो द्वितीयः२ अयसि त्ति अतसीप्रभृतिधान्यविषयस्तृतीयः३ वंसे त्ति वंशादिपर्वगविशेष सूत्रम् 688 विषयश्चतुर्थः 4 इक्खु त्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः 5 दब्भे त्ति दर्भशब्दस्योपलक्षणार्थत्वात् सेडियभंडियकोन्तियदब्भे शालीकन्दा दिउद्देशकः इत्यादितृणभेदविषयः षष्ठः 6 अब्भे त्ति वृक्षे समुत्पन्नो विजातीयोवृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः 7 तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः ८अद्रुते दसवग्ग त्ति अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः समुदाया दशवर्गाः, अशीतिः पुनरुद्देशका भवन्ति, वर्गेवर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं रायगिहे इत्यादि,जहा वक्कंतीए त्ति यथा प्रज्ञापनायाः पष्ठपदे, तत्र चैवमुत्पादोनो नारकेभ्य उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतिषूत्पत्तिरुक्तेह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं नवरं देववज्जं ति॥१॥ एक्को वे त्यादि, यद्यपि सामान्येन वनस्पतिषु / प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनांप्रत्येकशरीरत्वादेकाद्युत्पत्ति विरुद्धेति / अवहारो जहा उप्पलुद्देसए त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं 'ते णं भंते! जीवा समये 2 अवहीरमाणा 2 केवतिकालेणं अवहीरंति?, गोयमा! ते णं असंखेज्जा समए 2 अवहीरमाणा 2 असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिय'त्ति 'ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?' इतः परं यदुक्तं जहा उप्पलुद्देसए त्ति अनेनेदं सूचितं 'गोयमा! नो अबंधगा बंधए वा बंधगावे'त्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, लेश्यासु 34 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy