________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1311 // 20 शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्धे वर्णादि परिणामः सूत्रम् 670 परमाणुप्रकाराः अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति // छफासे इत्यादि, तत्र सर्व्वकळशो 1 गुरुश्च 2 देशश्च शीतः 3 उष्णः 4 स्निग्धो 5 रूक्षश्चे 6 ति, इह च देशशीतादीनां चतुर्णां पदानामेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्व्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिर्भङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानांच चतुर्णां पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः षड्भिर्दिकसंयोगैर्गुणितास्त्रीणि शतानि चतुरशीत्याधिकानि भवन्तीत्यत एवोक्तं सव्वेवेते छफासे इत्यादि॥जइसत्तफासे इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिर्भङ्गका भवन्ति, तेच सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः,एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिकंशतम्, एवं गुरुलघुभ्यांशेषैः षड्भिः सह १२८,शीतोष्णाभ्यामप्येवमेव 128, एवं स्निग्धरूक्षाभ्यामपि 128, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह एवं सत्तफासे पंच बारसुत्तरा भंगसया भवंती ति। अट्ठफासे इत्यादि, चतुर्णा कळशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति, एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्रपुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवाष्टासुपदेषूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः 4, एवं शीतपदेन बहुवचनान्तेनैव 4, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव 4 एवं चैते 16, तथा लघुपदेन बहुवचनान्तेनैत एव 4, 1311