________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1304 // वचनान्ततया, सचैवं- एकःशीतः स्निग्धश्चान्यौ च पृथग्व्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनम्, षष्ठस्तु द्वितीयतृतीय 20 शतके पदयोरनेकवचनान्तत्वे, स चैवं- एकः शीतो रूक्षश्चान्यौ च पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनम्, उद्देशक:५ सूत्रम् 668 सप्तमस्त्वनेकवचनान्ताद्यपदः, सचैवं-स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौशीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः परमाण्वापुनरनेकवचनान्तादिमान्तिमपदः, स चैवं- पृथस्थितयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेक दिवर्णादिः वचनान्तत्वे आद्यतृतीययोः, स चैवं- द्वयोभिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे चैकस्य चोष्णरूक्षत्वे चेति, पणवीसं भंग त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्द्वादशनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति // 3 // चउप्पएसिए ण मित्यादि, सिय कालए य नीलए य त्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति / द्वितीयः, आद्ययोस्तृतीय उभयोश्चतुर्थः, स्थापना चेयं 31 / एवं दशसुद्विकयोगेषु प्रत्येकं चतुर्भङ्गीभावाच्चत्वारिंशद्भङ्गाः। जइ तिवन्ने इत्यादि तत्र प्रथमः कालको द्वितीयो नीलको 12 -ऽन्त्ययोश्चैकपरिणामत्वाल्लोहितक:१११ इत्येकः, तृतीयस्यानेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः 112, एवं 21 द्वितीयस्यानेकतायां तृतीयः१२१,आद्यस्यानेकत्वे चतुर्थः 211, एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसुचैतेषु चत्वारिं- 22 शदिति ।जइ चउवन्ने इत्यादि, इह पञ्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, तेच सूत्रसिद्धा एव,सव्वे नउई भंग त्ति एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् 2 पञ्चानां भङ्गकानां भावान्नवतिस्ते स्युरिति / जइ एगगंधे इत्यादि प्राग्वत् / जइ तिफासे इत्यादि, सव्वे सीए त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् 1 देसे निद्धे / त्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् 2 देसे लुक्खे त्ति तथैव द्वयो रूक्षत्वात् 3 इत्येकः, द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद // 1304 //