________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1303 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः सर्वेऽपि मीलिता नव भवन्तीति // 2 // तिपएसिए इत्यादि, सिय कालए त्ति त्रयाणामपि प्रदेशानां कालत्वादित्वेनैकवर्णत्वे पञ्च विकल्पा:, द्विवर्णतायांचैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाहादिकारणमपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येको भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्तौ, एकस्तुनीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्धङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः, जइ दुफासे इत्यादि समुदितस्य प्रदेशत्रयस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्व: शीतः प्रदेशत्रयस्यापि शीतत्वात्, देशश्च स्निग्धः, एकप्रदेशात्मकः, देशश्च रूक्षो द्विप्रदेशात्मकः, द्वयोरपि तयोरेकप्रदेशावगाहनादिनैकत्वेन विवक्षितत्वात्, एवं सर्वत्रेत्येको भङ्गः 1, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः ३एवं सर्वोष्णेनापि एवं सर्वस्निग्धेनापि 3 एवं सर्वरूक्षेणापि 3 तदेवमेते द्वादश 12, चतुःस्पर्शतायांतु देसे सीए इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, स्थापना चेयम् :: अन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं- द्वयरूपो देशः शीत एकरूपस्तूष्णः, पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेऽनेकवचनम्, तृतीयस्त्वनेकवचनान्ततृतीयपदः, सचैवं- एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा य : शीतो यश्चोष्णयोरेकस्तौ स्निग्धावित्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वनेकवचनान्तद्वितीयपदः, स चैवं-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्ष एतावुष्णाविइत्युष्णपदेऽनेकवचनम्, स्निग्धे तु द्वयोरेकप्रदेशाश्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति,पञ्चमस्तु द्वितीयचतुर्थपदयोरनेक // 1303 //