________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1277 // चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगत्तकाया न भन्नइ त्ति, तत्र च चर्मेष्टकादीनि व्यायामक्रियायामुपकरणानि तैः समाहतानि 19 शतके व्यायामप्रवृत्तावत एव निचितानि च घनीभूतानि, गात्राण्यङ्गानि यत्र स तथा तथाविधः कायो यस्याः सा तथेति, तिक्खाए उद्देशकः३ सूत्रम् 653 त्ति परुषायां वइरामईए त्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति सण्हकरणीए त्ति श्लक्ष्णानि चूर्णरूपाणि द्रव्याणि पृथ्व्यादिक्रियन्ते यस्यांसा श्लक्ष्णकरणी पेषणशिला तस्यांवट्टावरएणं ति वर्त्तकवरेण लोष्टकप्रधानेन पुढविकाइयं ति पृथिवीकायिक शरीरमह त्तावेदने समुदयं जतुगोलासमाणं ति डिम्भरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः पडिसाहरिए त्यादि इह प्रतिसंहरणं उद्देशक: 4 शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसङ्केपणं तु शिलायाः पततः संरक्षणम्, अत्थेगइय त्ति सन्ति ‘एके' केचन आलिद्ध त्ति आदिग्धाः शिलायां शिलापुत्रके वा लग्नाः संघट्ठिय त्ति सङ्कर्षिताः परिताविय त्ति पीडिताः उद्दविय त्ति मारिताः, कथं?, यतः पिट्ठ त्ति पिष्टाः एमहालिय त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः, यतो विशिष्टायामपि पेषणसामग्यां केचिन्न पिष्टा नैव च छुप्ता अपीति / / 30 // अत्थेगइया संघट्टिय त्ति प्रागुक्तं सङ्घट्टश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति तत्प्ररूपणायाह पुढवी त्यादि, अक्कंते समाणे त्ति आक्रमणे सति जमलपाणिण त्ति मुष्टिनेति भावः अणिटुंसमणाउसो! त्ति गौतमवचनं 'एत्तो'त्ति उक्तलक्षणाया वेदनायाः सकाशादिति // 31 // // 653 // एकोनविंशतितमशते / तृतीयः॥२१-३॥ // 1277 // ॥एकोनविंशशतके चतुर्थोद्देशकः॥ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितम्, चतुर्थे तु नारकादयो महावेदनादिधम्मनिरूप्यन्त इत्येवंसंबद्ध