SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ भाग-३ श्रीभगवत्यङ्गमा कत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः, तथा कश्चित्स्वभावमा-2 18 शतके श्रीअभय श्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपिन विरुद्धमित्यत उक्तं नाणदसणट्ठयाए दुवेवि अहं उद्देशकः 10 वृत्तियुतम् ति, नचैकस्य स्वभावभेदोन दृश्यते, एकोहि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् सूत्रम् 647 एकद्वित्वा॥१२६६॥ स्वभावाँल्लभत इति, तथा प्रदेशार्थतयाऽसङ्कयेयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं दिप्रश्नः कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति? अवस्थितोऽप्यहं नित्योऽप्यहम्, असङ्कत्येयप्रदेशिता हि न कदाचनापि। व्यपैत्यतो नित्यताऽभ्युपगमेऽपिन दोषः, तथा उवओगट्टयाएत्ति विविध विषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद्धावित्वाच्चेत्यनित्यपक्षोऽपिन दोषायेति // 18 // एवं जहा रायप्पसेणइज्जे इत्यादि, अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितांप्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुम्, ततो भगवानाह- यथासुखं देवानांप्रिय! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति / / 19 / / / 647 / / अष्टादशशते दशमः॥१८-१०॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति // 18 // अष्टादशशतवृत्तिर्विहिता वृतानि वीक्ष्य वृत्तिकृताम् / प्राकृतमरोहादृष्टं न कर्म कर्तुं प्रभुर्फवति // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ अष्टादशं शतकं समाप्तम् / / // 1266 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy