SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1241 // भंते! कइहिं ठाणेहिं अट्ठ कम्मपयडीओ निजरिस्संति?, गोयमा! चउहिं ठाणेहिं, तंजहा- कोहेणं जाव लोभेणं'ति, इह नारकादीनामष्टापि कर्माण्युदये वर्तन्ते, उदयवर्त्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्त्तिनश्च ते ततश्च कषायोदये कर्मनिर्जराया भावात् क्रोधादिभिर्वैमानिकानामष्टकर्मप्रकृतिनिर्जरणमुच्यते इति // 2 // अनन्तरं कषाया निरूपिताः, ते च चतुः सङ्ख्यत्वात्कृतयुग्मलक्षणसङ्खयाविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह कइण मित्यादि, चत्तारि जुम्म त्ति इह गणितपरिभाषया समोराशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वौ राशी युग्मशब्दवाच्यौ, द्वौ चौजः शब्दवाच्यौ भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिता अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र कडजुम्मे त्ति कृतं सिद्धं पूर्णम्, ततः परस्य राशिसज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्णम्, यद्युग्मंसमराशिविशेषस्तत्कृतयुग्मम्, तेओए त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवत्तिभिरोजो विषमराशिविशेषस्त्र्योजः, दावरजुम्मे त्ति द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरंयुग्म कृतयुग्मादन्यत्तन्निपातनविधेापरयुग्मम्, कलिओए'त्ति कलिना- एकेन आदित एव कृतयुग्माद्वोपरिवर्त्तिना ओजो विषमराशिविशेषः कल्योज इति ।जेणं रासी त्यादि, योराशिश्चतुष्केनापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारोनास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि॥ 3 // अनन्तरं कृतयुग्मादिराशयः प्ररूपिताः, अथ तैरेव नारकादीन् प्ररूपयन्नाह नेरइया ण मित्यादि जहन्नपदे कडजुम्म त्ति अत्यन्तस्तोकत्वेन कृतयुग्माः कृतयुग्मसज्ञिताः उक्कोसपए त्ति सर्वोत्कृष्टतायां त्र्योजःसज्ञिता मध्यमपदे चतुर्विधा अपि, एतच्चैवमाज्ञाप्रामाण्यादवगन्तव्यम् // 4 // वणस्सइकाइया ण मित्यादि, वनस्पतिकायिका जघन्यपद उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात्तथाहि- जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां 18 शतके उद्देशकः 4 सूत्रम् 623-624 प्राणातिपातादीनामुप भोगेतरौ कृतादियुग्मा सूत्रम् 625 बादरतेजस्काय वक्तव्यता // 1241 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy