________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1227 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे यत एतयोरेव संयतत्वमिति अस्संजओऽवि तहेव त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याच्चरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि, केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायंवाच्यः, अत एवाह नवरं जस्स जं अत्थित्ति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति // 28 // कषायद्वारे सकसाई त्यादि, अयमर्थः- सकषायः सभेदो जीवादिस्थानेषु स्याञ्चरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यःसकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः अकसायीत्यादि अकषायी' उपशान्तमोहादिः सच जीवो मनुष्यः सिद्धश्चस्यात्, तत्र जीव:सिद्धश्चाचरमो यतो जीवस्याकषायित्वं प्रतिपतितमप्यवश्यम्भावि, सिद्धस्य तु न प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति // 29 // ज्ञानद्वारे नाणी जहा सम्मदिट्ठि त्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः- जीवः सिद्धश्चाचरमः, जीवो हि ज्ञानस्य सतः प्रतिपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः,शेषास्तु ज्ञानोपेतनारकत्वादीनांपुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, सव्वत्थ त्ति सर्वेषु जीवादिसिद्धान्तेषुपदेष्वेकेन्द्रियवर्जितेष्विति गम्यम्, ज्ञानभेदापेक्षयाऽऽह आभिणिबोहिए इत्यादि, जहा आहारओ त्तिकरणात्स्याच्चरमः स्यादचरम इति दृश्यम्, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमोऽन्यत्वचरमः, जस्स जं अत्थि त्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यम्, तच्च प्रतीतमेव, केवलनाणी त्यादि, केवलज्ञान्यचरमो वाच्य इति भावः अन्नाणी इत्यादि, अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः, यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यत एवासावचरम इति (ग्रन्थाग्रं 15000) एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयम् // 30 // शेषमप्यनयैव दिशाऽभ्यूह्यमिति // 31-34 // अथ चरमाचरमलक्षणाभिधानायाह जो जं पाविहिति // 1227 //