________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1226 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे भवसिद्धीओ इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितिमिति अभवसिद्धिओ सव्वत्थ त्ति सर्वेषु जीवादिपदेषु नो चरिमे त्ति अभव्यस्य भव्यत्वेनाभावात्, नोभवे त्यादि उभयनिषेधवान् जीवपदे सिद्धपदे चाभवसिद्धिकवदचरमस्तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति // 24 ॥सज्ञिद्वारे सन्नी जहा आहारओ त्तिसज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसङ्ग्यपि, उभयनिषेधवांश्च जीव सिद्धश्चाचरमो मनुष्यस्तु चरमः, उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति // 25 // लेश्याद्वारे सलेसेत्यादि, जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति // 26 // दृष्टिद्वारे सम्मद्दिट्ठी जहा अणाहारओ त्ति जीव: सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमा ये त्वन्यथा तेऽचरमा इति। मिच्छादिट्ठी जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः,यो हि जीवो निर्वास्यति स मिथ्यादृष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न लप्स्यते स चरमोऽन्यस्त्वचरमः, सम्मामिच्छे त्यादि, एगिंदियविगलिंदियवज्जं ति एतेषां किल मिश्रं न भवतीति नारकादिदण्डके नैते मिश्रालापक उच्चारयितव्या इत्यर्थः, अस्य चोपलक्षणत्वेन सम्यग्दृष्ट्यालापक एकेन्द्रियवर्जमित्यपि द्रष्टव्यम्, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयम्, यथा सङ्क्षिपद एकेन्द्रियादयोऽसज्ञिपदे ज्योतिष्कादय इति, सिय चरिमे सिय अचरिमे सम्यग्मिथ्यादृष्टिः स्याचरमो यस्य तत्प्राप्तिः पुनर्न भविष्यति, इतरस्त्वचरम इति // 27 // संयतद्वारे संजओ इत्यादि, अयमर्थः-संयतोजीवः स्याच्चरमो यस्य पुनः संयमोन भविष्यति, अन्यस्त्वचरमः, एवं मनुष्योऽपि, // 1226 //