________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1225 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे त्यादि जहा सम्मदिट्ठित्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः, अयं चैवं प्रथमतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीव: स्यात् सिद्धश्च स च प्रथम एवेति // 18 // पर्याप्तिद्वारे पंचही त्यादि, पञ्चभिः पर्याप्तिभिः पर्याप्तकस्तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, जस्स जा अस्थि त्ति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति // 19 // अथ प्रथमाप्रथमलक्षणाभिधानायाह जो जेण गाहा, यो भावो जीवत्वादिर्येन जीवादिना कर्जा प्राप्तपूर्व अवाप्तपूर्वः भावः पर्यायः सः जीवादिस्तेनभावेनाप्रथमको भवति, सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् शेषैः प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैःशेषैः? इत्याह- अप्राप्तपूर्वैर्भावैरिति गाथार्थः। अथ प्रथमादिविपक्षंचरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह जीवेण मित्यादि, जीवो भदन्त! जीवभावेन जीवत्वपर्यायेण किं चरमः? किं जीवत्वस्य प्राप्तव्यचरम-2 भागः किं जीवत्वं मोक्ष्यतीत्यर्थः अचरमे त्ति अविद्यमानजीवत्वचरमसमयः, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थः, इह प्रश्न आह नो नैव चरमः प्राप्तव्यजीवत्वावसानो जीवत्वस्याव्यवच्छेदादिति // 20 // नेरइए ण मित्यादि सिय चरिमे सिय अचरिमे त्ति यो नारको नारकत्वादुद्वृत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमोऽन्यस्त्वचरमः, एवं यावद्वैमानिकः।। 21 // सिद्धे जहा जीवे त्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनङ्ख्यतीति // 21 / / जीवा ण मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति // 22 // आहारकद्वारे आहारए सव्वत्थ त्ति सर्वेषु जीवादिपदेषु सिय चरिमे सिय अचरिमे त्ति कश्चिच्चरमो यो निर्वास्यति अन्यस्त्वचरम इति / अनाहारकपदेऽनाहारकत्वेन जीव: सिद्धश्चाचरमो वाच्यः,अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात्, जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह अणाहारओ इत्यादि, सेसठाणेसु त्ति नारकादिषु पदेषु जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति // 23 // भव्यद्वारे पपवासाचा // 1225 //