SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1224 // सूत्रम् 616 स च प्रथम एवेति // 12 // कषायद्वारे सकसाई त्यादि, कषायिण आहारकवदप्रथमा अनादित्वात्कषायित्वस्येति अकसाई |18 शतके त्यादि,अकषायो जीव : स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलाभेस्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि सिद्धस्तु उद्देशकः१ प्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति // 13 // ज्ञानद्वारे णाणी त्यादि, जहा सम्मद्दिट्ठी त्ति स्यात्प्रथमः जीवादीनां स्यादप्रथम इत्यर्थः, तत्र केवली प्रथमोऽकेवली तु प्रथमज्ञानलाभे प्रथमोऽन्यथा त्वप्रथम इति, नवरं जं जस्स अत्थि त्ति प्रथमचरमत्वे जीवादिदण्डकचिन्तायां यन्मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, केवलनाणी त्यादि व्यक्तम्, अन्नाणी त्यादि, जहा आहारए त्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभादिति // 14 // योगद्वारे सजोगी त्यादि, एतदप्याहारकवदप्रथममित्यर्थः, जस्स जो जोगो अत्थि त्ति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्तिस तस्य वाच्यः, सच प्रतीत एवेति, अजोगी त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति // 15 // उपयोगद्वारे सागारे त्यादि जहा अणाहारए त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु तु नो प्रथमा अप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अप्रथमाः साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥१६॥वेदद्वारे सवेयगेत्यादि, जहा आहारए प्रथम एवेत्यर्थः नवरं जस्स जो वेदो अत्थित्तिजीवादिदण्डकचिन्तायां यस्य नारकार्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च प्रतीत एवेति, अवेयओ इत्यादि, अवेदको यथाऽकषायी तथा 8 // 1224 // वाच्यस्त्रिष्वपि पदेषु जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः, अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति / / 17 / / शरीरद्वारे ससरीरी त्यादि, अयमप्याहारकवदप्रथम एवेति नवरमाहारगसरीरी
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy