SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1223 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे च जीवमनुष्यसिद्धेषु लभ्यते, तत्र च प्रथमत्वं वाच्यमत एवोक्तं- नोसञ्जीत्यादि॥९॥ लेश्याद्वारे सलेसे ण मित्यादि जहा आहारए त्ति अप्रथम इत्यर्थ अनादित्वात्सलेश्यत्वस्येति नवरं जस्स जा लेसा अत्थि त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सातस्य वाच्या, इदंच प्रतीतमेव, अलेश्यपदंतु जीवमनुष्यसिद्धेष्वस्ति, तेषांच प्रथमत्वंवाच्यम्, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह-अलेसे ण मित्यादि॥१०॥ दृष्टिद्वारे सम्मद्दिट्ठिए ण मित्यादि, सिय पढमे सिय अपढमे त्ति कश्चित्सम्यग्दृष्टिर्जीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमतया सम्यग्दर्शनलाभः कश्चिच्चाप्रथमो येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, एवं एगिंदियवज्जं ति एकेन्द्रियाणां सम्यक्त्वं नास्ति ततो नारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवंवाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः सिद्धस्तुप्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् / मिच्छादिट्ठी त्यादि, जहा आहारग त्ति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमित्यर्थः,अनादित्वान्मिथ्यादर्शनस्येति / सम्मामिच्छादिट्ठीत्यादि जहा सम्मदिट्ठी त्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, नवरं जस्स अत्थि सम्मामिच्छत्तं त्ति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्तिस एवेह प्रथमाप्रथमचिन्तायामधिकर्तव्यः॥ 11 // संयतद्वारे संजए इत्यादि, इह च जीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुक्तस्तथाऽसौवाच्यः,स्यात्प्रथमः स्यादप्रथम इत्यर्थः, एतच्चसंयमस्य प्रथमेतरलाभापेक्षयाऽवसेयमिति अस्संजए जहा आहारए त्ति अप्रथम इत्यर्थ असंयतत्वस्यानादित्वात्, संजयासंजए इत्यादि संयतासंयतो जीवपदे पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदे च भवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादपप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति नोसंजएनोअस्संजए इत्यादि, निषिद्धसंयमासंयममिश्रभावोजीव: सिद्धश्चस्यात् // 1223 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy