________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1222 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे सो तेणऽपढमओ होइ। जो जं अपत्तपुव्वं पावइ सो तेण पढमो उ॥१॥ इति एवं नेरइए त्ति नारकोऽप्यप्रथम अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति // 1 // सिद्धे णं भंते! इत्यादौ पढमे त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति / / 2-4 // आहारकद्वारे आहारए ण मित्यादि, आहारकत्वेन नो प्रथमोऽनादिभवेऽनन्तशः प्राप्त पूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छ्यते, अनाहारकत्वात्तस्येति // 5 // अणाहारए ण मित्यादौ, सिय पढमे त्ति स्यादिति कश्चिजीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति // 6 // एक्कक्के पुच्छा भाणियव्व त्ति यत्र किल पृच्छावाक्यमलिखित तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः / / 7 // भव्यद्वारे भवसिद्धीए इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च / यथाऽऽहारकोऽभिहित एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, नोभवसिद्धियनोअभवसिद्धिए णमिह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात्, तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम्॥८॥सज्ञिद्वारे सन्नी ण मित्यादि, सञ्जी जीव सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात् विगलिंदियवज्जं जाववेमाणिए त्ति एकद्वित्रिचतुरिन्द्रियान्वर्जयित्वाशेषा नारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसङ्ग्यपि नवरंजाव वाणमंतर त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि सजिष्वपि भूतपूर्वगत्यासज्ञित्वं लभ्यतेऽसजिनामुत्पादात्, पृथिव्यादयस्त्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्तशस्तल्लाभादिति, उभयनिषेधपदं स तस्याप्रथमो भवति / यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः॥ 1 // // 1222 //