________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1206 // 17 शतके उद्देशक:२ सूत्रम् 596 बलत्वादौ जीवजीवात्मनोश्चान्यमतं सूत्रम् 597 रूप्यरूपिताभवन र्भेदख्यापनार्थमिति परमतम्, स्वमतं तु सच्चेव जीवे सच्चेव जीवाय त्ति स एव जीवः शरीरम्, स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यम्, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः,अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकतद्भेदकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा जीवस्वरूपम्, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं भिन्नम्,भेदे हि नि:स्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति॥९॥॥५९६॥पूर्वं जीवद्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमाह- देवे ण मित्यादि, पुवामेव रूवी भवित्त त्ति पूर्वं विवक्षितकालात्, शरीरादिपुद्गलसम्बन्धात्, मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः अरूविं ति अरूपिणं रूपातीतममूर्तमात्मानमिति गम्यते, गोयमा इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह अहमेयं जाणामित्ति अहं 'एतत् वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः पासामि त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः बुज्झामि त्ति बुद्ध्ये श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात्, किमुक्तं भवति? अभिसमागच्छामि त्ति अभिविधिना साङ्गत्येन चावगच्छामि सर्वैः परिच्छित्तिप्रकारैः परिच्छिनधि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तदर्शयन्नाह मए इत्यादि, किंतदभिसमन्वागतं? इत्याह जन्न मित्यादि, तहागयस्सत्ति तथागतस्य तं देवत्वादिकं प्रकारमापन्नस्य सरूविस्स त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत्? इत्याह सकम्मस्स त्ति कर्मपुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह- सरागस्स त्ति रागसम्बन्धात् कर्मसम्बन्ध इति भावः, रागश्चेह 2006 //