SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1191 // सूत्रम् 583 अहवा एगिदियपएसावि बेइंदियस्स पएसा 1 अहवा एगिंदियपएसा बेइंदियाण य पएसा 2 एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा 16 शतके 'जे अजीवा ते दुविहा प०, तंजहा-रूविअजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा प०, तं०-खंधा जाव उद्देशकः८ परमाणुपोग्गला, जे अरूवी अजीवा ते सत्तविहा प०, तं०-नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा लोकमहत्ता एवमधम्मत्थिकायस्सवि आगासत्थिकायस्सवि अद्धासमए'त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रत्नप्रभोपरितन चरमान्तादौ जीवजी चरिमान्तेऽस्त्येवेति, हेट्ठिले चरिमंते इति यथाऽधश्चरमान्तो लोकस्योक्त एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त वदेशादि एव, विशेषस्त्वयं- लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तमिह तु रत्नप्रभाऽधस्तनचरमान्ते | सूत्रम् 584 परमाणोपञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यम्, शेषाणांतु द्वीन्द्रियादीनांमध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां र्गमन सामर्थ्यम् गमागमद्वारेण देशो देशाश्च सम्भवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणां तु रत्नप्रभाऽधस्तनचरिमान्ते / मारणान्तिकसमुद्धातेन गतानामेव तत्र देश एव सम्भवति न देशाः, तस्यैकप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितिमेवेति, अत एवाह नवरं देसे इत्यादि, चत्तारि चरमांत त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः उवरिमहेडिल्ला जहा रयणप्पभाए हेहिल्लेत्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेर्मध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयम्, प्रदेशचिन्तायांतु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयम्, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षट्कं वाच्यमिति भावः / अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानांच प्रस्तुतवक्तव्यतामाह एवं जाव अहेसत्तमाए इत्यादि, ग्रैवेयकविमानेषु तु यो विशेषस्तं दर्शयितुमाह नवर मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावादुपरितनाधस्तन // 1191 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy