________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1186 // णंभंते! कतिविहे प०?,गोयमा! चउव्विहे प०, तंजहा- चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणा० ओहिदंसणअणा 16 शतके केवलदसणअणा०'इत्यादि, एतच्च व्यक्तमेव, पासणयापयंचणेयव्वं त्ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां उद्देशक: 7 सूत्रम् 582 त्रिंशत्तमम्, तच्चैवं-कतिविहाणं भंते! पासणया प०?, गोयमा! दुविहा पासणया प०, तंजहा-सागारपासणया अणागार- उपयोगपश्यत्ते पासणया, सागारपा० णं भंते! कतिविहा प०?, गोयमा! छव्विहा प० तं०-सुयणाणसागारपा० एवं ओहिनाण. मणनाण. केवलनाण सुयअन्नाण विभंगनाणसागारपा०, अणागारपा० णं भंते! कतिविहा प०?, गोयमा! तिविहा प०, तंजहाचक्खुदंसणअणागारपा० ओहिदसणअणागारपा० केवलदसणअणागारपा०' इत्यादि, अस्य चायमर्थः 'पासणय'त्ति पश्यतो भावः पश्यत्ता बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकारानाकारभेदत्वे कः प्रतिविशेषः?, उच्यते, यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता, यत्र पुनर्वर्त्तमानकालस्त्रैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्यज्ञानंचसाकारपश्यत्तायां नोक्तम्, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे'इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणाम्, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति,अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति // 1 // // 582 // षोडशशते सप्तमः // 16-7 // 8 // 1186 //