________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1181 // संवृतादीनां स्वप्नाश्च पश्यतीति, फलाविसंवादी तु किल कोऽपिगोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, पयाणे व 16 शतके त्ति प्रतननं प्रतानो विस्तारः, तद्रूपःस्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः, एवमुत्तरत्रापि, उद्देशकः६ सूत्रम् 577 चिंतासुमिणे त्ति जाग्रदवस्थस्य या चिन्ताऽर्थचिन्तनं तत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, तव्विवरीय त्ति यादृशं वस्तु स्वप्ने सुप्तादिदृश्यदृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु स्वप्नभेदाः सूत्रम् 578 मध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः- कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, अव्वत्तदंसणे त्ति अव्यक्तमस्पष्टम्, दर्शनमनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः // 1 // स्वप्नाधिकारादेवेदमभि सत्यस्व जतादि७२ धातुमाह सुत्ते ण मित्यादि, सुत्तजागरे त्ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्ष उक्तः ॥२॥अथ विरत्यपेक्षया जीवादीनां पञ्चविंशतः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह जीवा ण मित्यादि, तत्र सुत्त त्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् जागर त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् सुत्तजागर त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति // 3 // // 577 // पूर्व स्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह संवुडे ण मित्यादि, संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते,संवृतस्तु तथाविधबोधोपेतसर्वविरत्यपेक्षयेति,संवुडेणंसुविणंपासइ अहातच्चंपासइत्ति सत्यमित्यर्थः संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वाद्देवताऽनुग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति ॥६॥अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह जीवा ण मित्यादि ॥७॥स्वप्नाधिकारादेवेदमाह कइ ण मित्यादि, 1 //