________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 615 // 8 शतके उद्देशक:४ क्रियाऽधिकारः। सूत्रम् 327 पञ्चक्रियाभेदप्रभेदप्रश्नाः / एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद्रत्नप्रभाक्रान्तं क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तत्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, प्रदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाच, कथं?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च। मध्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति / एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम्? इत्याह जावे त्यादि, ये वैमानिकभवसम्भवं स्पर्श न लप्स्यन्ते पुनस्तत्रानुत्पादने मुक्तिगमनात्ते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति // 326 // अष्टमशते तृतीयः॥८-३॥ ॥अष्टमशतके चतुर्थोद्देशकः॥ अनन्तरोद्देशके वैमानिका उक्तास्ते च क्रियावन्त इति चतुर्थोद्देशके ता उच्यन्ते, १रायगिहे जाव एवं व०, कति णं भंते! किरियाओ पन्नत्ताओ? गोयमा! पंच किरि०प०, तंजहा-काइया अहिगरणिया, एवं किरियापदं निरवसेसं भाणियव्वं जाव मायावत्तियाओ कि. विसेसाहियाओ, सेवं भंते! रत्ति भगवं गोयमे०॥सूत्रम् 327 // 8-4 १तत्र चरायगिहयित्यादिसूत्रम्-एवं किरियापयं ति, एवमेतेन क्रमेण क्रियापदंप्रज्ञापनाया द्वाविंशतितमम्, (प० 435-2) // 615 // तच्चैवं काइया अहिगरणिया पाओसिया पारियावणिया पाणाइवायकिरियेत्यादि, अन्तिमं पुनरिदंसूत्रमत्र, एयासिणं भंते! आरंभियाणं परिग्गहियाणं अप्पच्चक्खाणियाणं मायावत्तियाणं मिच्छादसणवत्तियाण य कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया