________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 614 // 8 शतके उद्देशक:३ वृक्षाधिकारः। सूत्रम् 326 पृथिवीसंख्या, तस्यचरमत्वाचरमत्वादिप्रश्नाः / अचरिमा नो चरिमाई नो अचरिमाइं नो चरिमंतपएसा नो अचरिमंतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य अचरिमंतपएसा ये त्यादि, तत्र किं चरिमाऽचरिमा? इत्येकवचनान्तः प्रश्नः, चरिमाइं अचरिमाइ मिति बहुवचनान्तः प्रश्नः, चरिमंतपएसा अचरिमंतपएस त्ति चरिमाण्येवान्तर्वर्त्तित्वादन्ताश्चरिमान्तास्तेषांप्रदेशा इति समासः, तथाऽचरममेवान्तो विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः, गोयमा! नो चरिमा नो अचरिमा चरमत्वं ह्येतदापेक्षिकम्, (समानजातीयापेक्षिकचरमाचरमभंगवाच्या?) अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति?, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमाऽसौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या अचरमत्वं युज्यते न चास्ति सा तस्मानाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र, किमियं रत्नप्रभा पश्चिमोत मध्यमा? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम्, अथ नो चरिमाई नो अचरिमाई ति कथं?, यदा तस्याश्चरमव्यपदेशोऽपि / नास्ति तदा चरमाणीति कथं भविष्यति?, एवमचरमाण्यपि, तथा नो चरिमंतपएसा नो अचरिमंतपएस त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्तं नो चरिमान्तप्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभेति, किंतर्हि नियमा नियमेनाचरमं चचरमाणिच, एतदुक्तं भवति, अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्खयेयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति, तथाहि रत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनेयजनानुग्रहाय लिख्यते, स्थापना चेयम्,