________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 611 // सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिज्जानाति कांश्चित्तत्पर्यायाश्च, तानिच मनःपर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्तामूर्त(अभिलाप्य?)द्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यवा विशेषाधिकाः, केषाञ्चिच्छुताज्ञानाविषयीकृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टावभासं तत्, तेभ्योऽपि मत्यज्ञानपर्यवा अनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः, केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धि मत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनादिति // 323 // अष्टमशते द्वितीयः॥८-२॥ 8 शतके उद्देशकः३ वृक्षाधिकारः। सूत्रम् 324 वृक्षानां सहयात|जीवादिभेद तालादि निम्बाम्रजम्ब्वादिआलुशृंगबेरादिप्रभेदप्रश्नाः / ॥अष्टमशतके तृतीयोद्देशकः॥ अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह १कइविहाणं भंते! रुक्खा पन्नत्ता?, गोयमा! तिविहारुक्खा प०, तंजहा-संखेजजीविया असंखेनजी० अणंतजी०।२से किं तंसंखेजजीविया?,संखे० अणेगविहा प०, तंजहा-ताले तमाले तक्कलि तेतलि जहा पन्नवणाए जाव नालिएरी, जेयावन्ने तहप्पगारा, सेत्तं संखेज्जजी० / 3 से किं तं असंखेजजीविया?, असंखेज्जजी• दुविहा प०, तंजहा- एगट्ठिया य बहुबीयगा य। 4 से किं तं