________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 610 // 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर केवलोऽकारः सवर्णसहितश्चाथ ते तस्य स्वपर्यायाः शेषास्तस्य परपर्यायाः॥२॥) एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, एवं जाव त्ति करणादिदं दृश्यं केवइया णं भंते! ओहि नाणपज्जवा पन्नत्ता?, गोयमा! अणंता ओहिनाणपज्जवा पन्नत्ता! केवइया णं भंते! मणपज्जवनाणपज्जवा पन्नत्ता?, गोयमा! अणंता मणपज्जवनाणपज्जवा पण्णत्ता। केवइया णं भंते! केवलनाणपज्जवा पन्नत्ता?, गोयमा! अणंता केवलनाणपज्जवा पन्नत्ते ति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदान्नारकतिर्यग्मनुष्यदेवरूपतत्स्वामिभेदादसङ्ख्यातभेदतद्विषयभूतक्षेत्रकालभेदाद्, अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनः पर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपलिच्छेदापेक्षया वेति, 114 एवं मत्यज्ञानादित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति // (ग्रन्थाग्रम् 8000) // 115 अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह, एएसि ण मित्यादि, इह चस्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयम्, स्वपरपर्यायापेक्षयातुसर्वेषांतुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनः पर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपर्यायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः ततस्तस्य (अवधेः श्रुतस्य) रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततः केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात्तेस्येति / 116 एवमज्ञानसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयम्, 117 मिश्रसूत्रे तु स्तोका मनः पर्यायज्ञानपर्यवाः, इहोपपत्तिः प्राग्वत्, तेभ्यो विभङ्गज्ञानपर्यवा अनन्तगुणाः, मनः पर्यायज्ञानापेक्षया विभङ्गस्य बहुतमविषयत्वात्, तथाहि, विभङ्गज्ञानमूधि उपरिमग्रैवेयकादारभ्य