________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 608 // 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर द्वारे। अपि च मतिश्रुतज्ञानिनो लभ्यन्त इति, केवलज्ञानिनस्त्वनन्तगुणाः, सिद्धानां सर्वज्ञानिभ्योऽनन्तगुणत्वात् / अज्ञानिसूत्रे तु विभङ्गज्ञानिनः स्तोकाः, यस्मात् पञ्चेन्द्रिया एव ते भवन्ति, तेभ्योऽनन्तगुणा मत्यज्ञानिनः श्रुताज्ञानिनः, यतो मत्यज्ञानिनः श्रुताज्ञानिनश्चैकेन्द्रिया अपीति तेन तेभ्यस्तेऽनन्तगुणाः, परस्परतश्च तुल्याः। तथा मिश्रसूत्रे स्तोका मनः पर्यायज्ञानिनः, अवधिज्ञानिनस्तु तेभ्योऽसङ्खयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याःप्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्तिः पूर्वोक्तैव, आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसङ्खयेयगुणाः, कथम्?, उच्यते, यतः सम्यग्दृष्टिभ्यः सुरनारकेभ्यो मिथ्यादृष्टयस्तेऽसङ्खयेयगुणा उक्तास्तेन विभङ्गज्ञानिन आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्योऽसङ्खयेयगुणाः, केवलज्ञानिनस्तु विभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धानामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनचान्योऽन्यं तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिष्वपि तेषां भावात्, तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वादिति॥ 112 अथ पर्यायद्वारे केवइये त्यादि, आभिनिबोधिकज्ञानस्य पर्यवा विशेषधा आभिनिबोधिकज्ञानपर्यवाः, तेच द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम्?, एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या विशुद्धः 1 अन्यस्त्वसङ्खयेयभागवृद्ध्या 2 अपरः सङ्खयेयभागवृद्ध्या 3 अन्यतरः सङ्खयेयगुणवृद्ध्या 4 तदन्योऽसङ्खयेयगुणवृद्ध्या ५अपरस्त्वनन्तगुणवृद्ध्या ६इति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वादसंख्यातस्य चासङ्ख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात्, अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा // 608 //