SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 606 // 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 15 ज्ञान 16 गोचर द्वारे। संचिट्ठणे ति, अवस्थितिकालो यथा कायस्थितौ प्रज्ञापनाया अष्टादशे पदेऽ(प० ३८९)भिहितस्तथा वाच्यः, तत्र ज्ञानिनां सापट पूर्वमुक्त एवावस्थितिकालः, यच्च पूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम्, आभिनिबोधिकज्ञानादिद्वयस्य तु जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरेकाणि षट्षष्टिः सागरोपमाणि, अवधिज्ञानिनामप्येवम्, नवरंजघन्यतो विशेषः, स चायम्, ओहिनाणी जहन्नेणं एक्कं समयं कथं?, यदा विभङ्गज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एव विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदैकं समयमवधिर्भवतीत्युच्यते / मणपज्जवनाणी णं भंते! पुच्छा, गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी, कथं?, संयतस्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पन्नं तत उत्पत्तिसमयसमनन्तरमेव विनष्टं चेत्येवमेकं समयम्, तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमाजन्म चानुवृत्तं तदा भवति मनःपर्यवस्योत्कर्षतो देशोना पूर्वकोटीति / केवलनाणी णं पुच्छा, गोयमा! साइए अपज्जवसिए, अन्नाणी मइअन्नाणी सुयअन्नाणी णं पुच्छा, गोयमा! अन्नाणी मइअन्नाणी सुयअन्नाणी य तिविहे पन्नत्ते, तंजहा- अणाइए वा अपज्जवसिए अभव्यानां 1 अणाइए वा सपज्जवसिए भव्यानां 2 साइए वा सपज्जवसिए प्रतिपतितसम्यग्दर्शनानां 3, तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं सम्यक्त्वप्रतिपतितस्यान्तमुहूर्तोपरि सम्यक्त्वप्रतिपत्तौ, उक्कोसेणं अणंत कालं अणंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अवड पोग्गलपरियट्ट देसूणं सम्यक्त्वाद्दष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिण्यवसर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्येति / विभंगनाणी णं भंते! पुच्छा, गोयमा! जहन्नेणं एक्कं समयमुत्पत्तिसमयानन्तरमेव प्रतिपाते, उक्कोसेणं तेत्तीसं सागरोवमाई देसूणपुव्वकोडिअब्भहियाई देशोनांपूर्वकोटिं विभङ्गितया मनुष्येषु जीवित्वाऽप्रतिष्ठानादावुत्पन्नस्येति // अन्तरद्वारे अंतरं सव्वं जहा जीवाभिगमे त्ति पञ्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्वं यथा
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy