________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 604 // 8 शतके - उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 15 ज्ञान 16 गोचर द्वारे। ऋजुमतिरधोऽधस्ताद्यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान्तावत्, किं? मनोगतान् भावाजानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिर्यग्लोकमध्यादधो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्तादधोलोकग्रामान यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्द्ध यावज्योतिषश्च ज्योतिश्चक्रस्योपरितलं तिरियं जाव अंतोमणुस्सखेत्ते त्ति तिर्ययावदन्तर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह, अड्वाइजेस्वित्यादि, तथा तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ त्ति तत्र तं चेव त्ति, इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्रमभिगृह्यते, तत्राभ्यधिकतरकमायामविष्कम्भावाश्रित्य विपुलतरकंबाहल्यमाश्रित्य विशुद्धतरकं निर्मलतरकं वितिमिरतरकं तु तिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेज्जइभागं / उक्कोसेणवि पलिओवमस्स असंखेज्जइभागं जाणइ पासइ अईयं अणागयं च, तं चेव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ कियन्नन्दीसूत्रमिहाध्येयम्? इत्याह जाव भावओ त्ति भावसूत्रं यावदित्यर्थः, तच्चैवं भावओ णं उज्जुमई अणंते भावे जाणइ पासइ सव्वभावाणं अणंतं भागं जाणइ पासइ, तं चेव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ त्ति। 106 केवलणाणस्से त्यादि, एवं जाव भावओ त्ति, एवमुक्तन्यायेन यावद्धावत इत्यादि तावत्केवलविषयाभिधायि नन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं खेत्तओणं केवलनाणी सबखेत्तं जाणइ पासइ, इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, कालओणं केवलणाणी सव्वं कालं जाणइ पासइ, भावओ णं केवली सवभावे जाणइ पासइ॥१०७ मइअन्नाणस्से त्यादि, मइअन्नाणपरिगयाई ति मत्यज्ञानेन मिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि // 604 //