________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 603 // 8 शतके | उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर द्वारे। त्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, अणंते त्ति, अनन्तानपरिमितान्, अणंतपएसिए त्ति, अनन्तपरमाण्वात्मकान्, जहा नंदीए (नंदी प०१०७-२) त्ति, तत्र चेदं सूत्रमेवं खंधे जाणइ पासइ त्ति तत्र स्कन्धान् विशिष्टैकपरिणामपरिणतान् सजिभिः पर्याप्तकैः प्राणिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वर्तिभिर्मनस्त्वेन परिणामितानित्यर्थः, जाणइ त्ति मनः पर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदाज्जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनःपर्यायज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽतः पश्यतीत्युच्यते, उक्तञ्च भाष्यकारेण जाणइ बज्झेऽणुमाणाओत्ति, (बाह्याननुमानाजानाति) इत्थं चैतदङ्गीकर्त्तव्यम्, यतो मूर्तद्रव्यालम्बनमेवेदम्, मन्तारश्चामूर्तमपि धर्मास्तिकायादिकं मन्येरन्, न च तदनेन साक्षात् कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्नालम्बनमे (चिन्तित ज्ञानं?)वेदमवसेयम्, तत्र च दर्शनसम्भवात्पश्यतीत्यपिन दुष्टम्, एकप्रमात्रपेक्षया तदनन्तर(चिन्तित ज्ञानानन्तर?) भावित्वाच्चोपन्यस्तमित्यलमतिविस्तरेण, ते चेव उ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासइ तानेव स्कन्धान विपुला विशेषग्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितःसच सौवर्ण:पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्यासौ विपुलमतिस्तद्वानेव, अभ्यधिकतरकानृजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थतया वर्णादिभिश्च वितिमिरतरा इव, अतिशयेन विगतान्धकारा इव येते वितिमिरतरास्त एव वितिमिरतरका अतस्तान्, अत एव विशुद्धतरकान् विस्पष्टतरकाञ्जानाति पश्यति च, तथा खेत्तओ णं उज्जुमई अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डागपयरे उड्ढे जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्वाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु (तीसाए अकम्मभूमीसु) छप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणइ पासइ तत्र क्षेत्रत // 603 //