________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 602 // सूत्रम् सव्व इत्युक्तमिति न विरोधः / 104 दव्वओ ण मित्यादि, अवधिज्ञानी रूपिद्रव्याणि पुद्गलद्रव्याणीत्यर्थः, तानि च 8 शतके जघन्येनानन्तानि तैजसभाषाद्रव्यणामपान्तरालवर्तीनि, यत उक्तं तेयाभासादव्वाण अंतरा एत्थ लभति पट्ठवओ त्ति, (अत्र उद्देशकः२ | आशीविषाप्रस्थापकस्तेजोभाषावर्गणयोरन्तरालद्रव्याणि जानाति) उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, धिकारः। ज्ञानत्वात्तस्य, पश्यति सामान्याकारणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्त 322-323 त्किमर्थमेनं परित्यज्य प्रथमंजानातीत्युक्तम्?, अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम्, १५ज्ञान 16 गोचर अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वेनाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्यो द्वारे। त्पद्यन्ते लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायत इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, जहा नंदीए (नंदी प० 97-1) त्ति, एवं च तत्रेदं सूत्रं खेत्तओ णं ओहिणाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं जाणइ पासई त्यादि, व्याख्या पुनरेवं- क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गलस्यासङ्खयेयभागमुत्कृष्टतोऽसङ्खयेयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्खयेयं भागमुत्कृष्टतोऽसङ्खयेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च जानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ कियद्रं यावदिह नन्दीसूत्रं वाच्यम्? इत्याह जाव भावओ त्ति भावाधिकारं यावदित्यर्थः, स छ चैवम्, भावतोऽवधिज्ञानी जघन्येनानन्तान् भावानाधारद्रव्यानन्तत्वाज्जानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्य 8 // 602 // नन्तान् भावान्, जानाति पश्यति च तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 105 उज्जुमइ त्ति मननं मतिः संवेदनमित्यर्थः, ऋज्वी सामान्यग्राहिणी मति ऋजुमतिः, घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरि