________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 601 // सूत्रम् इति प्रकारः सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति न तु सर्वभावैः॥१॥ लोकालोकं क्षेत्रं सर्वाद्धां। 8 शतके कालमथवा त्रिविधमपि / भावानौदयिकादीन् पञ्च यदेतावज्ज्ञेयम् // 2 // यद्वाऽऽदेश इति श्रुतं श्रुतोपलब्धेषु तस्य मतिज्ञानं उद्देशकः 2 आशीविषाप्रसरति तद्भावनया सूत्रानुसारेण विनाऽपि // 3 // ) इदंच सूत्रं नन्द्यामिहैव (च) वाचनान्तरे (1) न पासइत्ति पाठान्तरेणाधीतम्, धिकारः। एवं च नन्दिटीकाकृता व्याख्यातम्, आदेशः प्रकारः, स च सामान्यतो विशेषतश्च, तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्याणि 322-323 धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन्, 15 ज्ञान 16 गोचर शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति, 103 उवउत्तेत्ति भावश्रुतोपयुक्तो नानुपयुक्तः, स हि नाभिधानादभिधेयप्रतिपत्ति द्वारे। समर्थो भवतीति विशेषणमुपात्तम्, सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात्, पश्यति च श्रुतानुवर्त्तिना मानसेनाचक्षुर्दर्शनेन, सर्वद्रव्याणि चाभिलाप्यान्येव जानाति, पश्यति चाभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुक्तम्, ननु पश्यतीति कथं?, कथं चन, सकलगोचरदर्शनायोगात्?, अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानपश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनांचालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु न पासइ त्ति पठन्तीति, ननु भावओ णं सुयनाणी उवउत्ते सव्वभावे जाणई ति यदुक्तमिह तत् सुए चरित्ते न पज्जवा सव्व इत्ति (श्रुते चारित्रे न सर्वे पर्यायाः (अभिलाप्यापेक्षया))। अनेन च सह कथं न विरुध्यते?, उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चौदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान्, जातितोजानाति, अथवा यद्यप्यभिलाप्यानां भावानामनन्तभाग एव श्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्तेऽतस्तदपेक्षया सर्वभावान्, जानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु सुए चरित्ते न पज्जवा // 601 //