________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 600 // 8 शतके | उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर द्वारे। स्थितिं वा समाश्रित्य भावत औदयिकादिभावान् द्रव्याणांवा पर्यायान् समाश्रित्य, दव्वओणं ति द्रव्यमाश्रित्याभिनिबोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानम्, तत्राऽऽएसेणं ति, आदेशः प्रकारः सामान्यविशेषरूपस्तत्र चादेशेनोघतो द्रव्यमात्रतयान तुतगतसर्वविशेषापेक्षयेति भावः, अथवाऽऽदेशेन श्रुतपरिकर्मिततया सर्वद्रव्याणि धर्मास्तिकायादीनि जानात्यवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्, पासइत्ति पश्यत्यवग्रहेहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः नाणमवायधिईओ दंसणमिटुं जहोग्गहेहाओ। तह तत्तरुई सम्मं रोइजइ जेण तं णाणं॥११॥ तथा जं सामन्नग्गहणं दसणमेयं विसेसियं नाणं (अपायधारणे ज्ञानमवग्रहेहे दर्शनं यथेष्टं तथा तत्त्वरुचिः सम्यक्त्वं येन रोच्यते तज्ज्ञानम् // 1 // यत्सामान्यग्रहणं दर्शनमेतद्विशेषितं ज्ञानम्।) अवग्रहेहे च सामान्यार्थग्रहणरूपे अवायधारणे च विशेषग्रहणस्वभावे इति, नन्वष्टाविंशतिभेदमानमाभिनिबोधिकज्ञानमुच्यते, यदाह आभिणिबोहियनाणे अट्ठावीसंहवंति पयडीओ त्ति (आभिनिबोधिकज्ञाने प्रकृतयोऽष्टाविंशतिर्भवन्ति) इह च व्याख्याने श्रोत्रादिभेदेन षड्भेदतयाऽवायधारणयोदशविधं मतिज्ञानं प्राप्तम्, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहेहयोर्व्यञ्जनावग्रहस्य च चतुर्विधतया षोडशविधं चक्षुरादिदर्शनमिति प्राप्तमिति कथं न विरोधः?, सत्यमेतत्, किन्त्वविवक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेदं मतिज्ञानमष्टाविंशतिधोच्यत इति पूज्या व्याचक्षत इति, खेत्तओ त्ति क्षेत्रमाश्रित्याभिनिबोधिकज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्राऽऽदेसेणं ति, ओघतः श्रुतपरिकर्मिततया वा सव्वं खेत्तं ति लोकालोकरूपम्, एवं कालतो भावतश्चेति, आह च भाष्यकार आएसोत्ति पगारो ओघादेसेण सव्वदव्वाई। धम्मत्थिकाइयाइं जाणइ न उ सव्वभावेणं॥१॥खेत्तं लोगालोगं कालं सव्वद्धमहव तिविहंपि॥ पंचोदइयाईए भावे जन्नेयमेवइयं // 2 // आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं / पसरइ तब्भावणया विणावि सुत्ताणुसारेणं // 3 // इति (आदेश // 600 //