________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 596 // 8 शतके उद्देशकः२ आशीविषाधिकारः। सूत्रम् 321 10 उपयोग 11 लेश्या 13 कषाय द्वारेषु सकसाई णं भंते! जहा सइंदिया एवं जाव लोहकसाई, 98 अकसाई णं भंते! पंच नाणाई भयणाए॥९९ सवेदगाणं भंते! जहा सइंदिया, एवं इत्थिवेदगावि, एवं पुरिसवे एवं नपुंसकवे०, अवे. जहा अकसाई॥१०० आहारगाणं भंते! जीवा जहा सकसाई नवरं केवलनाणंपि, 101 अणाहारगाणं भंते! जीवा किं नाणी अ०?, मणपज्जवनाणवज्जाइंना० अन्नाणाणि य तिन्नि भयणाए। सूत्रम् 321 // 90 सागारोवउत्ते त्यादि, आकारो विशेषस्तेन सह यो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताःतत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया स्याउ स्यात्त्रीणि स्याच्चत्वारि स्यादेकम्, यच्च स्यादेकं यच्च स्यावे इत्याधुच्यते तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदैकमेव ज्ञानमज्ञानं वेति, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति // 91 अथ साकारोपयोगभेदापेक्षमाह, आभिणी त्यादि, ओहिनाणसागारे त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात् स्याच्चतुर्जानिनो मतिश्रुतावधिमनःपर्यवयोगात्तथा वाच्याः।मणपज्जवे त्यादि, मनः पर्यवज्ञानसाकारोपयुक्ता यथा मनः पर्यवज्ञानलब्धिकाः प्रागुक्ताः स्यात्रिज्ञानिनोमतिश्रुतमनः पर्यवयोगात्स्याच्चतुर्जानिनः केवलवर्जज्ञानयोगात्तथा वाच्या इति॥९२ अणागारोवउत्ता ण मित्यादि, अविद्यमान आकारो यत्र तदनाकारं दर्शनम्, तत्रोपयुक्ताः तत्संवेदनका ये ते तथा, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनांलब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनांतु त्रीण्यज्ञानानि भजनयैव / एव मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः, एवं चक्षुदर्शनाधुपयुक्ता अपि, नवरं ति विशेषः पुनरयं चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति ज्ञानाज्ञानप्रश्नाः /