SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 593 // | सूत्रम् 320 सिद्धानामपि चरित्रलब्धिशून्यत्वाद्, यतस्ते नोचारित्रिणो नोअचारित्रिण इति, ये त्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनया। 8 शतके 83 सामाइए त्यादि, सामायिकचरित्रलब्धिका ज्ञानिन एव, तेषां च केवलज्ञानवर्जानिचत्वारि ज्ञानानि भजनया, सामायिक | उद्देशकः२ आशीविषाचरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषांक |धिकारः। त्रीण्यज्ञानानि भजनया। एवं छेदोपस्थापनीयादिष्वपि वाच्यम्, एतदेवाह, एव मित्यादि, तत्र छेदोपस्थापनीयादि ९लब्धिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषांचाद्यानि चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाख्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषांक द्वारम्। पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्त्यतस्तदर्शनायाह ज्ञानादिदश लब्धिभेदनवरं अहक्खाये त्यादि, सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्र- प्रभेद प्रश्नाः। लब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति॥ 84 चरित्ताचरित्ते त्यादौ, तस्स अलद्धिय ज्ञानादि लब्धित्ति चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये, तेच ये ज्ञानिनस्ते (षां) पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषांत्रीण्यज्ञानानि | मत्सुतद्र रहितेषु भजनयैव // दाणलद्धी त्यादि, दानान्तरायक्षयक्षयोपशमादाने दातव्ये लब्धिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च, ज्ञानाज्ञानादि तत्र ये ज्ञानिनस्तेषांपञ्च ज्ञानानि भजनया, केवलज्ञानिनामपिदानलब्धियुक्तत्वात्, ये त्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनयैव, प्रश्नाः / दानस्यालब्धिकास्तु सिद्धास्तेच दानान्तरायक्षयेऽपिदातव्याभावात् सम्प्रदानासत्त्वाद्दानप्रयोजनाभावाच्चदानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति / / 85 लाभभोगोपभोगवीर्यलब्धीः सेतरा अतिदिशन्नाह, एव मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनां दानादयः सर्वप्रकारेण कस्मान्न भवन्ति? इति, उच्यते, प्रयोजनाभावात्, कृतकृत्या हि ते भगवन्त इति ॥बालवीरियलद्धियाण मित्यादि, बालवीर्यलब्धय असंयताः तेषां च ज्ञानिनां
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy