SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 592 // 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 320 ९लब्धि द्वारम्। ज्ञानद्वयं तत्त्रयं मतिश्रुतावधिज्ञानानि मतिश्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यमज्ञानद्वयं तत्त्रयं वा भवतीत्येवं भजनाऽवसेयेति // 77 अन्नाणलद्धियाण मित्यादि, अज्ञानलब्धिका अज्ञानिनस्तेषांच त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीणि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषांच पञ्चज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, 78 जहा अन्नाणे त्यादि, अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति / विभंगे त्यादि, विभङ्गज्ञानलब्धिकानांतु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां तु ज्ञानिनांपञ्च ज्ञानानि भजनया, अज्ञानिनांच द्वे अज्ञाने नियमादिति // 79 दंसणलद्धी त्यादि, दर्शनलब्धिकाः श्रद्धानमात्रलब्धिका इत्यर्थः, ते च सम्यक्श्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनांतु त्रीण्यज्ञानानि भजनयैवेति / 80 तस्स अलद्धिया नत्थि त्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति / सम्मईसणलद्धियाणं ति सम्यग्दृष्टीनाम्, तस्स अलद्धियाण मित्यादि, तस्यालब्धिकानां सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनां मिश्रदृष्टीनांच त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति। 81 मिच्छादसणलद्धियाणं ति मिथ्यादृष्टीनाम्, तस्स अलद्धियाण मित्यादि, तस्यालब्धिकानां मिथ्याप्रदर्शनस्यालब्धिमतां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति // 82 चरित्तलद्धी त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री। चारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनः पर्यववर्जानि चत्वारि ज्ञानानि भजनया भवन्ति, कथम्?, असंयतत्व आद्यं ज्ञानद्वयं तत्त्रयं वा, सिद्धत्वे च केवलज्ञानं ज्ञानादिदशलब्धिभेदप्रभेद प्रश्नाः / ज्ञानादिलब्धिमत्सुतद्ररहितेषु च ज्ञानाज्ञानादि प्रश्नाः / // 592 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy