SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 591 // तूपशमश्रेणीतः प्रच्यवमानस्येति।अहक्खायचरित्तलद्धी ति यथा येन प्रकारेणाख्यातमभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातम्, तदपि द्विविधम्, उपशमकक्षपकश्रेणिभेदात्, शेषं तथैवेति // 64 एवं चरित्ताचरित्ते त्यादौ, एगागार त्ति मूलगुणोत्तरगुणादीनांतद्भेदानामविवक्षणाद्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैवच विवक्षणाच्चरित्राचरित्रलब्धेरेकाकारत्वमवसेयम् / एवंदानलब्ध्यादीनामप्येकाकारत्वं भेदानामविवक्षणात् // 65 बालवीरियलद्धी त्यादि, बालस्यासंयतस्य यद्वीर्यमसंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रमोहोदयावीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगंवाच्ये, नवरं पण्डितः संयतो बालपण्डितस्तु संयतासंयत इति // 68 तस्स अलद्धिया णं ति तस्य ज्ञानस्यालब्धिका अलब्धिमन्त ज्ञानलब्धिरहिता इत्यर्थः / 69 आभिणिबोहियनाणे त्यादि, आभिनिबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि। 71 ओहिनाणलद्धी त्यादि, अवधिज्ञानलब्धिकास्त्रिज्ञानाः | केवलमनःपर्यायासद्भावे चतुर्जाना वा केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मतिश्रुतभावात्, त्रिज्ञाना वा मतिश्रुतमनःपर्यायभावात्, एकज्ञाना वा केवलभावात्, ये त्वज्ञानिनस्ते व्यज्ञाना मत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्, मणपज्जवे त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञाना अवधिकेवलाभावाच्चतुर्जाना वा केवलस्यैवाभावात्, मनः पर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना आद्यद्वयभावात्, त्रिज्ञाना वाऽऽद्यत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनस्ते व्यज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्, 75 केवलनाणे त्यादि, केवलज्ञानलब्धिका एकज्ञानिनस्ते च केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यं 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 320 ९लब्धिद्वारम्। ज्ञानादिदशलब्धिभेदप्रभेद प्रश्नाः। ज्ञानादिलब्धिमत्सुतद्र| रहितेषु च ज्ञानाज्ञानादि प्रश्नाः 59
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy